Class 10 Sanskrit Chapter 3 Question Answer

Class 10 Sanskrit Chapter 3

प्रस्तुत पाठ आयुर्वेद के प्रसिद्ध ग्रन्थ ‘सुश्रुतसंहिता‘ के चिकित्सा स्थान में वर्णित 24वें अध्याय से संकलित है। इसमें आचार्य सुश्रुत ने व्यायाम की परिभाषा बताते हुए उससे होने वाले लाभों की चर्चा की है। शरीर में सुगठन, कान्ति, स्फूर्ति, सहिष्णुता, नीरोगता आदि व्यायाम के प्रमुख लाभ हैं।

यह भी पढ़ें

Class 10 Sanskrit Chapter 3 Hindi translation

तृतीयः पाठः व्यायामः सर्वदा पथ्यः (व्यायाम हमेशा लाभदायक है।)

पाठ्यपुस्तकस्य प्रश्नोत्तराणि

प्रश्न 1. एकपदेन उत्तरं लिखत

(क) परमम् आरोग्य कस्मात् उपजायते?

उत्तरम्- व्यायामात्।

(ख) कस्य मांसं स्थिरीभवति?

उत्तरम्- व्यायामाभिरतस्य।

(ग) सदा कः पथ्यः?

उत्तरम्- व्यायामः।

(घ) कैः पुंभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?

उत्तरम्- आत्महितैषिभिः।

(ङ) व्यायामस्विन्नगात्रस्य समीपं के न उपसर्पन्ति?

उत्तरम्- व्याधयः।

प्रश्न 2. अधोलिखिताना प्रश्नानाम् उत्तराणि संस्कृतभाषया लिखत (अधोलिखित प्रश्नों के उत्तर संस्कृत भाषा में लिखिए)

(क) कीदृशं कर्म व्यायामसंज्ञितम् कथ्यते?

(किस प्रकार के कर्म को व्यायाम नाम से कहा जाता है?)

उत्तरम्- शरीरायासजननं कर्म व्यायामसंज्ञितम् कथ्यते।

(शारीरिक परिश्रम से उत्पन्न कर्म को व्यायाम नाम से कहा जाता है।)

(ख) व्यायामात् किं किमुपजायते?

(व्यायाम से क्या उत्पन्न होता है?)

उत्तरम्- व्यायामात् श्रमक्लमपिपासोष्णशीतादीनां सहिष्णुता आरोग्यं चोपजायते।

(व्यायाम से थकान, प्यास, गर्मी, सर्दी आदि की सहनशीलता और आरोग्य उत्पन्न होता है।)

(ग) जरा कस्य सकाशं सहसा न समधिरोहति?

(बुढ़ापा किसके पास अचानक आक्रमण नहीं करता है?)

उत्तरम्- जरा व्यायामाभिरतस्य सकाशं सहसा न समधिरोहति।

(बुढ़ापा व्यायाम करने वाले के पास अचानक आक्रमण नहीं करता है।)

(घ) कस्य विरुद्धमपि भोजनं परिपच्यते?

(किसका विपरीत भोजन भी पच जाता है?)

उत्तरम्- नित्यं व्यायाम कुर्वतः विरुद्धमपि भोजनं परिपच्यते।

(हमेशा व्यायाम करने वाले का विपरीत भोजन भी पच जाता है।)

(ङ) कियता बलेन व्यायामः कर्तव्यः?

(कितने बल से व्यायाम करना चाहिए?)

उत्तरम्- अर्धबलेन व्यायामः कर्तव्यः।

(अर्ध बल से व्यायाम करना चाहिए।)

(च) अर्धबलस्य लक्षणम् किम्?

(अर्धबल का लक्षण क्या है?)

उत्तरम्- व्यायाम कुर्वतः जन्तोः हृदिस्थानास्थितः वायुः यदा वक्त्रं प्रपद्यते, तद् अर्धबलस्य लक्षणम्।

(व्यायाम करते हुए व्यक्ति के हृदय में स्थित वायु जब मुख तक पहुँच जाती है, तो वह अर्धबल का लक्षण है।)

प्रश्न 3. उदाहरणमनुसृत्य कोष्ठकगतेषु पदेषु तृतीयाविभक्तिं प्रयुज्य रिक्तस्थानानि पूरयत

यथा

व्यायामः ……………..’ हीनमपि सुदर्शनं करोति। (गुण)

व्यायामः गुणैः हीनमपि सुदर्शनं करोति।

(क) ……………….  व्यायामः कर्त्तव्यः।

(ख) ………………. सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।

(ग) ………………..  विना जीवनं नास्ति।

(घ) सः …………….. खञ्जः अस्ति। (चरण)

(ङ) सूपकारः ……………….. भोजनं जिघ्रति। (नासिका)

उत्तरम्-

(क) बलस्याधेन व्यायामः कर्त्तव्यः।

(ख) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।

(ग) विद्यया विना जीवनं नास्ति।

(घ) सः चरणेन खञ्जः अस्ति।

(ङ) सूपकारः नासिकया भोजनं जिघ्रति ।

प्रश्न 4. स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत

(क) शरीरस्य आयासजननं कर्म व्यायामः इति कथ्यते।

(ख) अरयः व्यायामिनं न अर्दयन्ति।

(ग) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः।

(घ) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते।

(ङ) गात्राणां सुविभक्तता व्यायामेन संभवति।

उत्तरम्- प्रश्ननिर्माणम्

(क) कस्य आयासजननं कर्म व्यायामः इति कथ्यते?

(ख) के व्यायामिनं न अर्दयन्ति?

(ग) कैः सर्वदा व्यायामः कर्तव्यः?

(घ) व्यायाम कुर्वतः कीदृशं भोजनम् अपि परिपच्यते?

(ङ) केषां सुविभक्तता व्यायामेन संभवति?

(अ) षष्ठ श्लोकस्य भावमाश्रित्य रिक्तस्थानानि पूरयत

यथा-……………………….. समीपे उरगाः न …………… एवमेव व्यायामिनः जनस्य समीपं ………… न गच्छन्ति । व्यायामः वयोरूपगुणहीनम् अपि जनम् …………………….. करोति।

उत्तरम्- यथा- वैनतेयस्य समीपे उरगा: न गच्छन्ति, एवमेव व्यायामिनः जनस्य समीपं व्याधयः न गच्छन्ति।। व्यायामः वयोरूपगुणहीनम् अपि जनम् सुदर्शनं करोति।

प्रश्न 5. ‘व्यायामस्य लाभाः’ इति विषयमधिकृत्य पञ्चवाक्येषु एकम् अनुच्छेदं लिखत।

उत्तरम्- व्यायामः सर्वदा लाभदायकः भवति। व्यायामात् श्रमक्लम-पिपासोष्ण-शीतादीनां सहिष्णुता तथा परमम् आरोग्यम् उपजायते। व्यायामिनं पुरुषम् अरय: बलात् न अर्दयन्ति। व्यायामाभिरतस्य च मांसं स्थिरीभवति। व्यायाम कुर्वतः विदग्धमविदग्धं वा भोजनमपि परिपच्यते।

(अ) यथानिर्देशमुत्तरत

(क) ‘तत्कृत्वा तु सुखं देहम्’ अत्र विशेषणपदं किम्?

उत्तरम्- सुखम्।

(ख) ‘व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः’ अस्मिन् वाक्ये क्रियापदं किम्?

उत्तरम्- उपसर्पन्ति।

(ग) ‘पुम्भिरात्महितैषिभिः’ अत्र ‘पुरुषैः’ इत्यर्थे किं पदं प्रयुक्तम्?

उत्तरम्- पुम्भिः।

(घ) ‘दीप्ताग्नित्वमनालस्यं स्थिरत्वं लाघवं मृजा’ इति वाक्यात् ‘गौरवम्’ इति पदस्य विपरीतार्थकं पदं चित्वा  लिखत।

उत्तरम्- लाघवम्।

(ङ) ‘न चास्ति सदृशं तेन किञ्चित् स्थौल्यापकर्षणम्’ अस्मिन् वाक्ये ‘तेन’ इति सर्वनामपदं कस्मै प्रयुक्तम्?

उत्तरम्- व्यायामाय।

प्रश्न 6. (अ) निम्नलिखितानाम् अव्ययानाम् रिक्तस्थानेषु प्रयोगं कुरुत

सहसा,  अपि,  सदृशं,  सर्वदा,  यदा,  सदा,  अन्यथा।

(क) …………. व्यायामः कर्त्तव्यः।

(ख) ………… मनुष्यः सम्यक्रुपेण व्यायामं करोति तदा सः ………………… स्वस्थः तिष्ठति।

(ग) व्यायामेन असुन्दरा: ………..” सुन्दराः भवन्ति ।

(घ) व्यायामिनः जनस्य सकाशं वार्धक्यं ………………… नायाति।

(ङ) व्यायामेन ………… किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायाम समीक्ष्य एव कर्तव्यम् …. ………..” व्याधयः आयान्ति।

उत्तरम्-

(क) सर्वदा व्यायामः कर्त्तव्यः ।

(ख) यदा मनुष्यः सम्यक्रूरूपेण व्यायामं करोति तदा सः सदा स्वस्थः तिष्ठति।

(ग) व्यायामेन असुन्दराः अपि सुन्दराः भवन्ति।

(घ) व्यायामिनः जनस्य सकाशं वार्थक्यं सहसा नायाति ।

(ङ) व्यायामेन सदृशं किञ्चित् स्थौल्यापकर्षणं नास्ति।

(च) व्यायामं समीक्ष्य एव कर्तव्यम् अन्यथा व्याधयः आयान्ति।

(आ) उदाहरणमनुसृत्य वाच्यपरिवर्तनं कुरुत

यथा-

कर्मवाच्यम्

आत्महितैषिभिः व्यायामः क्रियते।

कर्तृवाच्यम्

आत्महितैषिणः व्यायाम कुर्वन्ति।

(1) बलवता विरुद्धमपि भोजनं पच्यते।

(2) जनैः व्यायामेन कान्तिः लभ्यते।।

(3) मोहनेन पाठः पठ्यते।

(4) लतया गीतं गीयते।

उत्तरम्

(1) कर्मवाच्यम्

बलवता विरुद्धमपि भोजनं पच्यते।

कर्तृवाच्यम्

बलवान् विरुद्धमपि भोजनं पचति ।

(2) कर्मवाच्यम्

जनैः व्यायामेन कान्तिः लभ्यते।

कर्तृवाच्यम्

जनाः व्यायामेन कान्तिम् लभन्ते।

(3) कर्मवाच्यम्

मोहनेन पाठः पठ्यते।

कर्तृवाच्यम्

मोहनः पाठं पठति।

(4) कर्मवाच्यम्

लतया गीतं गीयते।।

कर्तृवाच्यम्

लता गीतं गायति।

प्रश्न 7. (अ) अधोलिखितेषु तद्धितपदेषु प्रकृति/प्रत्ययं च पृथक् कृत्वा लिखत

उत्तरम्-                    मूलशब्दः (प्रकृतिः)     प्रत्ययः

(क) पथ्यतमः               पथ्य               +        तमप्

(ख) सहिष्णुता              सहिष्णु          +        तल

(ग) अग्नित्वम्              अग्नि            +        त्व

(घ) स्थिरत्वम्                स्थिर            +          त्व 

(ङ) लाघवम्                  लघु                 +         अण

अन्य महत्त्वपूर्ण प्रश्नोत्तराणि Class 10 Sanskrit Chapter 3

भावार्थ-लेखनम्

प्रश्न:- अधोलिखितश्लोकानां संस्कतेन भावार्थ लिखत

(i) Class 10 Sanskrit Chapter 3

शरीरायासजननं ” …………………………………………. ” विमृद्नीयात् समन्ततः॥

उत्तरम्- भावार्थ:

व्यायामस्य महत्त्वं प्रतिपादयन् कथितं यत् शारीरिकपरिश्रमात् उत्पन्नं कर्म व्यायामः इति नाम्ना कथ्यते। व्यायामं कृत्वा सुखेन (सारल्येन) शरीरस्य सर्वतः मर्दनं (तैललेपनम्) करणीयम्।

(ii) Class 10 Sanskrit Chapter 3

शरीरोपचयः कान्तिर्गात्राणां ………………………………………  लाघवं मृजा।

उत्तरम्- भावार्थ:

व्यायामात् शरीरे वृद्धिः, कान्तिः, शरीराङ्गानां सुगठनम्, जठराग्नेः प्रवर्धनम्, स्फूर्तिः, स्थिरत्वम्, लाघवम्, स्वच्छीकरणं च आयाति।

(iii) Class 10 Sanskrit Chapter 3

श्रमक्लमपिपासोष्ण …………………………… “व्यायामादुपजायते॥

उत्तरम्- भावार्थ:

व्यायामः अतीव लाभदायकः भवति। व्यायामात् श्रमजनितं शैथिल्यम्, पिपासा-तापशीतादीनां च सहिष्णुता उत्पन्ना भवति। व्यायामात् च परमम् आरोग्यम् अपि उत्पद्यते। अत एव नित्यं व्यायामः करणीयः ।

(iv) Class 10 Sanskrit Chapter 3

न चास्ति सदृशं तेन ” ……………………………………..  मर्दयन्त्यरयो बलात॥

उत्तरम्- भावार्थ:

व्यायामेन सदृशं पीनतादूरीकरणसाधनं किञ्चिदपि नास्ति, न च व्यायामकर्तारं मनुष्यं शत्रवः बलात् अर्दनं कुर्वन्ति। अर्थात् व्यायामात् शरीरं स्फूर्तियुक्तं बलशाली, पराक्रमी च भवति।

(v) Class 10 Sanskrit Chapter 3

न चैनं सहसाक्रम्य …………………………………  व्यायामाभिरतस्य च।

उत्तरम्- भावार्थ:

य: नित्यं व्यायामं करोति, तं जनं वार्धक्यमपि सहसा आक्रमणं कृत्वा आरूढं न भवति। व्यायामे संलग्नस्य च जनस्य मांसं शान्तः (स्थिरम्) जायते।

(vi) Class 10 Sanskrit Chapter 3

व्यायामस्विनगात्रस्य……………………………………….  वैनतेयमिवोरगाः॥

उत्तरम्- भावार्थ:

यथा सर्पाः गरुडस्य समीपं न गच्छन्ति, तथैव परिश्रमजन्यस्वेदसिक्तशरीरस्य पादाभ्याम् उन्नमितस्य च अर्थात् नित्यं व्यायामशीलस्य जनस्य समीपं रोगाः न गच्छन्ति, सः सदैव नीरोगः भवति।

(vii) Class 10 Sanskrit Chapter 3

व्यायाम कुर्वतो नित्यं …………………………………..  परिपच्यते॥

उत्तरम्- भावार्थ:

यः जनः नित्यं व्यायाम करोति तस्य सुपक्वम्, अपक्वम् वा प्रतिकूलं च भोजनं सरलतया (निर्दोषम्) जीर्यते परिपच्यते वा।

(viii) Class 10 Sanskrit Chapter 3

व्यायामो हि सदा पथ्यो …………………………….. “पथ्यतमः स्मृतः॥

उत्तरम्- भावार्थ:

व्यायामः सर्वेषां कृते लाभदायकः भवति, विशेषतः शक्तिशालिनां स्नेहयुक्त अशनानि खादताम् तु सदैव हितकरः भवति। व्यायामः च शरदि वसन्तकाले च तेषां कते त पथ्यतमः मन्यते।

संस्कृतमाध्यमेन प्रश्नोत्तराणि Class 10 Sanskrit Chapter 3

(अ) एकपदेन उत्तरत

प्रश्न 1. ‘व्यायामः सर्वदा पथ्यः’ इति पाठस्य लेखकः कः?

उत्तरम्- आचार्यसुश्रुतः।

प्रश्न 2. शरीरायासजननं कर्म किम् कथ्यते ?

 उत्तरम्- व्यायामः।

प्रश्न 3. किम् कृत्वा देहं समन्ततः विमृदनीयात् ?

उत्तरम्- व्यायामम्।

प्रश्न 4. व्यायामात् केषां सुविभक्तता भवति?

उत्तरम्- गात्राणाम्।

प्रश्न 5. शीतादीनां सहिष्णुता कस्माद् उपजायते ?

उत्तरम्- व्यायामात्।

प्रश्न 6. केन सदृशं स्थौल्यापकर्षणं नास्ति?

उत्तरम्- व्यायामेन।

प्रश्न 7. शत्रवः कीदृशं मनुष्यं न अर्दयन्ति ?

उत्तरम्- व्यायामिनम्।

प्रश्न 8. व्यायामिनं का सहसाक्रम्य न समधिरोहति ?

उत्तरम्- जरा (वार्धक्यम्)।

प्रश्न 9. व्यायामाभिरतस्य किं स्थिरीभवति ?

उत्तरम्- मांसम्।

प्रश्न 10. सर्पाः कम् न उपसर्पन्ति?

उत्तरम्- वैनतेयम् (गरुडम्)।

प्रश्न 11. व्यायामस्विन्नगात्रस्य का: नोपसर्पन्ति?

उत्तरम्- व्याधयः।

प्रश्न 12. किं कुर्वतो विरुद्धमपि भोजनं परिपच्यते ?

उत्तरम्- व्यायामम्।

प्रश्न 13. बलस्यार्धन कः कर्तव्यः?

उत्तरम्- व्यायामः।

Class 10 Sanskrit Chapter 3

(ब) पूर्णवाक्येन उत्तरत 

प्रश्न 1. ‘व्यायामः सर्वदा पथ्यः’ इति पाठः कुतः समुद्धतः?

उत्तरम्- ‘व्यायामः सर्वदा पथ्यः’ इति पाठः ‘सुश्रुतसंहिता’ इति ग्रन्थात् समुदतः।

प्रश्न 2. व्यायाम कृत्वा किं कुर्यात् ?

उत्तरम्- व्यायामं कृत्वा सुखपूर्वकं देहं समन्ततः विमृदनीयात्।

प्रश्न 3. परमम् आरोग्यं कस्माद् उपजायते?

उत्तरम्- परमम् आरोग्यं व्यायामाद उपजायते।

प्रश्न 4. अरयः बलात् कंन अर्दयन्ति?

उत्तरम्- अरयः बलात् व्यायामिनं मानवं न अर्दयन्ति।

प्रश्न 5. कस्य मांसं स्थिरीभवति?

उत्तरम्- व्यायामाभिरतस्य मांसं स्थिरीभवति।

प्रश्न 6. कस्य व्याधयो नोपसर्पन्ति ?

उत्तरम्- व्यायामस्विन्नगात्रस्य पद्भ्यामुवर्तितस्य च व्याधयो नोपसर्पन्ति।

प्रश्न 7. व्यायामः कैः हीनमपि सुदर्शनं करोति ?

उत्तरम्- व्यायामः वयोरूपगुणैः हीनमपि सुदर्शनं करोति।

प्रश्न 8. व्यायामः सदा केषां पथ्यः कथ्यते ?

उत्तरम्- व्यायामः सदा बलिनां स्निग्धभोजिनां च पथ्यः कथ्यते।

प्रश्न 9. व्यायामः कदा पथ्यतमः स्मृतः?

उत्तरम्- व्यायामः शीते वसन्ते च पथ्यतमः स्मृतः।

प्रश्न 10. आत्महितैषिभिः मानवैः कदा कश्च कर्त्तव्यः?

उत्तरम्- आत्महितैषिभिः मानवैः सर्वेष्वृतुषु प्रतिदिनं व्यायामः कर्त्तव्यः।

प्रश्न 11. कानि समीक्ष्य व्यायाम कुर्यात् ?

उत्तरम्- वयोबलशरीराणि देशकालाशनानि च समीक्ष्य व्यायामं कुर्यात्।

प्रश्ननिर्माणम् Class 10 Sanskrit Chapter 3

प्रश्न:- अधोलिखितवाक्येषु रेखाङ्कितपदमाधृत्य प्रश्ननिर्माणं कुरुत

  1. व्यायामं कृत्वा सुखं प्राप्यते।
  2. देहं समन्ततः विमृद्नीयात्।
  3. व्यायामेन अनालस्यं स्थिरत्वं च भवति।
  4. शरीरे कान्तिः व्यायामेन संभवति।
  5. उष्णशीतादीनां सहिष्णुता व्यायामादुपजायते।
  6. परमम् आरोग्यं व्यायामाद् उपजायते ।
  7. स्थौल्यापकर्षणं व्यायामेन सदृशं न किञ्चिदस्ति।
  8. अरयः व्यायामिनं मर्त्य अर्दयन्ति।
  9. जरा व्यायामिनं सहसाक्रम्य न समधिरोहति।
  10. व्यायामाभिरतस्य मांसं स्थिरीभवति ।

उत्तरम्- प्रश्ननिर्माणम्

  1. व्यायामं कृत्वा किम् प्राप्यते?
  2. किम् समन्ततः विमदनीयात्?
  3. केन अनालस्यं स्थिरत्वं च भवति?
  4. शरीरे कान्ति: केन संभवति?
  5. केषां सहिष्णुता व्यायामादुपजायते?
  6. परमम् आरोग्यं कस्माद् उपजायते?
  7. स्थौल्यापकर्षणं केन सदृशं न किञ्चिदस्ति?
  8. अरयः कम् न अर्दयन्ति?
  9. का व्यायामिनं सहसाक्रम्य न समधिरोहति?
  10. कस्य मांसं स्थिरीभवति?

Leave a Comment

error: Content is protected !!